|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.264. अध्यायः 264
Mahabharata - Shanti Parva - Chapter Topics
नारदेन मृत्युब्रह्मसंवादानुवादपूर्वकमकम्पनस्य पुत्रशोकापनोदनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
नारद उवाच। 12-264-0x(6280)(75824)
विनीय दुःखमबला साऽऽत्मनैवायतेक्षणा।
उवाच प्राञ्जलिर्भूत्वा तमेवावर्जिता तदा॥ 12-264-1(75825)
त्वया सृष्टा कथं नारी मादृशी वदतां वर।
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी॥ 12-264-2(75826)
विभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे।
त्वं मां भीतामवेक्षस्व शिवेनेश्वरचक्षुषा॥ 12-264-3(75827)
बालान्वृद्धान्वयस्थांश्च न हरेयमनागसः।
प्राणिनः प्राणिनामीश नमस्तेऽस्तु प्रसीद मे॥ 12-264-4(75828)
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितृनपि।
अपध्यास्यन्ति यद्येवं मृतास्तेभ्यो विभेम्यहम्॥ 12-264-5(75829)
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः।
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता॥ 12-264-6(75830)
यमस्य भवने देव पात्यन्ते पापकर्मिणः।
प्रसादये त्वां वरद प्रसादं कुरु मे प्रभो॥ 12-264-7(75831)
एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह।
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं महेश्वर॥ 12-264-8(75832)
पितामह उवाच। 12-264-9x(6281)
त्वं हिं संहारबुद्ध्या मे चिन्तिता रुषितेन च।
तस्मात्संहर सर्वास्त्वं प्रजा मा च विचारय॥ 12-264-9(75833)
एतदेवमवश्यं हि भविता नैतदन्यथा।
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे॥ 12-264-10(75834)
एवमुक्ता महाबाहो मृत्युः परपुरंजय।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी॥ 12-264-11(75835)
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी।
तूष्णीमासीत्ततो देवो लोकानामीश्वरेश्वरः॥ 12-264-12(75836)
प्रससाद किल ब्रह्मा स्वयमेवात्मनाऽऽत्मनि।
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत॥ 12-264-13(75837)
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते।
सा कन्याऽथ जगामास्य समीपादिति नःश्रुतम्॥ 12-264-14(75838)
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा।
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्यगात्॥ 12-264-15(75839)
सा तत्र परमं देवी तपोऽचरत दुश्चरम्।
समा ह्येकपदे तस्थौ दशपद्मानि पञ्च च॥ 12-264-16(75840)
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्।
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत्॥ 12-264-17(75841)
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा।
तथैवैकपदे तात पुनरन्यानि सप्त सा॥ 12-264-18(75842)
तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद।
भूयः पद्मायुतं तात मृगैः सह चचार सा॥ 12-264-19(75843)
द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते।
पुनरेव ततो राजन्मौनमातिष्ठदुत्तमम्॥ 12-264-20(75844)
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव।
ततो जगाम सा कन्या कौशिकीं नृपसत्तम॥ 12-264-21(75845)
तत्र वायुजलाहारा चचार नियमं पुनः।
ततो ययौ महाभागा गङ्गां मेरुं च केवलम्॥ 12-264-22(75846)
तस्थौ दार्विव निश्चेष्टा प्रजानां हितकाम्यया।
ततो हिमवतो मूर्ध्निं यत्र देवाः समीजिरे॥ 12-264-23(75847)
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमचरत्तपः।
तस्थौ पितामहं चैव तोषयामास यत्नतः॥ 12-264-24(75848)
ततस्तामब्रवीत्तत्र लोकानां प्रपितामहः।
किमिदं वर्तसे पुत्रि क्रियतां मम तद्वचः॥ 12-264-25(75849)
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्।
न हरेयं प्रजा देव पुनस्त्वाऽहं प्रसादये॥ 12-264-26(75850)
तामधर्मभयाद्भीतां पुनरेव प्रयाचतीम्।
तदाऽब्रवीद्देवदेवो निगृह्येदं वचस्ततः॥ 12-264-27(75851)
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे।
मयाऽप्युक्तं मृषा भद्रे भविता नेह किंचन॥ 12-264-28(75852)
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यति।
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा॥ 12-264-29(75853)
इमन्यं च ते कामं ददानि मनसेप्सितम्।
न त्वां दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः॥ 12-264-30(75854)
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि।
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम्॥ 12-264-31(75855)
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह।
पुनरेव महात्मानं नेति देवेशमव्ययम्॥ 12-264-32(75856)
तामब्रवीत्तदा देवो मृत्यो संहर मानवान्।
अधर्मस्ते न भविता यथा ध्यास्याम्यहं शुभे॥ 12-264-33(75857)
`त्वं हि शक्ता च युक्ता च पूर्वोत्पन्ना च भामिनि।
अनुशिष्टा च निर्दोषा तस्मात्त्वं कुरु मे मतम्'॥ 12-264-34(75858)
यानश्रुबिन्दून्पतितानपश्यं
ये पाणिभ्यां धारितास्ते पुरस्तात्।
ते व्याधयो मानवान्घोररूपाः
प्राप्ते काले पीडयिष्यन्ति मृत्यो॥ 12-264-35(75859)
सर्वेषां त्वं प्राणिनामन्तकाले
कामक्रोधौ सहितौ योजयेथाः।
एवं धर्मस्त्वामुपैष्यत्यमोघो
न चाधर्मं लप्स्यसे तुल्यवृत्तिः॥ 12-264-36(75860)
एवं धर्मं पालयिष्यस्यथो त्वं
न चात्मानं मञ्जयिष्यस्यधर्मे।
तस्मात्कामं रोचयाभ्यागतं त्वं
सा त्वं साधो संहरस्वेह जन्तून्॥ 12-264-37(75861)
सा वै तदा मृत्युसंज्ञा कृतास्त्री
शापाद्भीता बाढमित्यब्रवीत्तम्।
अथो प्राणान्प्राणिनामन्तकाले
कामक्रोधौ प्राप्य नित्यं निहन्ति॥ 12-264-38(75862)
मृत्योर्ये ते व्याधयश्चाश्चुपाता
मनुष्याणां युज्यते यैः शरीरम्।
सर्वेषां वै प्राणिनां प्राणनान्ते
तस्माच्छोकं मा कृथा बुद्ध्य बुद्ध्या॥ 12-264-39(75863)
सर्वे देवाः प्राणिनां प्राणनान्ते
गत्वा वृत्ताः सन्निवृत्तास्तथैव।
एवं सर्वे मानवाः प्राणनान्ते
गत्वा वृत्ता देववद्राजसिंह॥ 12-264-40(75864)
वायुर्भीमो भीमनादो महौजाः
सर्वेषां च प्राणिनां प्राणभूतः।
अनावृत्तिर्देहिनां देहपाते
तस्माद्वायुर्देवदेवो विशिष्टः॥ 12-264-41(75865)
सर्वे देवा मर्त्यसंज्ञाविशिष्टाः
सर्वे मर्त्या देवसंज्ञाविशिष्टाः।
तस्मात्पुत्रं मा शुचो राजसिंह
पुत्रः स्वर्गं प्राप्यते मोदते हे॥ 12-264-42(75866)
एवं मृत्युर्देवसृष्टा प्रजानां
प्राप्ते काले संहरन्ती यथावत्।
तस्याश्चैव व्याधयस्तेऽश्रुपाताः
प्राप्ते काले संहरन्तीह जन्तून्॥ ॥ 12-264-43(75867)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुष्षष्ट्यधिकद्विशततमोऽध्यायः॥ 264॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-264-1 विनीय प्रमार्ज्य। आवर्जिता ऋजुभूता। सात्वतीवायते क्षणेति ट. ड. पाठः॥ 12-264-5 प्रियान् पुत्रानित्यस्य न हरेयमिति पूर्वेणान्वयः। तत्र हेतुः। येषां संबन्धिनो मृतास्ते यद्यपध्यास्यन्ति शप्स्यन्ते तर्हि तेषां तेभ्यो बिभेम्यहम्। अपध्यास्यन्ति ये देवमिति थ. पाठः॥ 12-264-6 बलवदत्यन्तम्॥ 12-264-7 निवेदये त्वा वरदेति ट. ड. पाठः॥ 12-264-9 मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना। गच्छ संहरेति झ. पाठः॥ 12-264-15 अप्रतिश्रुत्याऽनङ्गीकृत्य। धेनुकं गोतीर्थं मायान्तर्वर्ति॥ 12-264-21 कौशिकी गण्डकी नदीम्॥ 12-264-23 दार्विव स्थाणुरिव॥ 12-264-27 नेगृह्य हठं कृत्वा॥ 12-264-35 कालयिष्यन्ति मृत्यो इति झ. पाठः॥ 12-264-38 प्राप्य प्रापय्य॥ 12-264-39 प्राणनान्ते जीवनान्ते। बुद्ध्य जानीहि। प्राणिनां प्रायणान्ते इति ध. पाठः॥ 12-264-41 नानावृत्तिर्देहिनां देहभेदे इति झ. पाठः॥ 12-264-42 देवाः क्षीणपुण्या मर्त्यत्वं मर्त्याश्च कृतपुण्या देवत्वं प्राप्नुवन्तीत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|